अथ शारदोक्तमहामृत्युञ्जयजपविधिः
*।। अथ शारदोक्तमहामृत्युञ्जयजपविधिः।।* *विनियोगः* ॐ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्टऋषिः अनुष्टुप्छन्दः श्रीत्र्यम्बकरुद्रो देवता श्रीं बीजं ह्रीं शक्तिः मम यजमानस्य वा शरीरे सर्वारिष्ट निवृत्तिपूर्वकसकलमनोरथसिद्ध्यर्थे जपे विनियोगः । *अथ ऋष्यादिन्यासः* ॐ वसिष्ठऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीत्र्यम्बकरुद्र देवतायै नमः हृदये । श्रीं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः ।। *अथ करन्यासः-* ॐ हौं ॐ जूं सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा अङ्गुष्ठाभ्यां नमः । ॐ हौं ॐ जूं सः भूर्भुवः स्वः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवय जीवय तर्जनीभ्यां स्वाहा । ॐ हीं ॐ जूं सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्धनम् ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा मध्यमाभ्यां वषट् । ॐ हौं ॐ जूं सः भूर्भुवः स्व: उर्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय हां ह्रीं अनामिकाभ्यां हुम्। ॐ हौं ॐ जूं सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो.भगवते रुद्राय त्रिलोचनाय ऋग्यज...