अथ शारदोक्तमहामृत्युञ्जयजपविधिः
*।। अथ शारदोक्तमहामृत्युञ्जयजपविधिः।।*
*विनियोगः*
ॐ अस्य श्रीमहामृत्युञ्जयमन्त्रस्य वसिष्टऋषिः अनुष्टुप्छन्दः श्रीत्र्यम्बकरुद्रो देवता श्रीं बीजं ह्रीं शक्तिः मम यजमानस्य वा शरीरे सर्वारिष्ट निवृत्तिपूर्वकसकलमनोरथसिद्ध्यर्थे जपे विनियोगः ।
*अथ ऋष्यादिन्यासः*
ॐ वसिष्ठऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्रीत्र्यम्बकरुद्र देवतायै नमः हृदये । श्रीं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः पादयोः ।।
*अथ करन्यासः-*
ॐ हौं ॐ जूं सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा अङ्गुष्ठाभ्यां नमः ।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवय जीवय तर्जनीभ्यां स्वाहा ।
ॐ हीं ॐ जूं सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्धनम् ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा मध्यमाभ्यां वषट् ।
ॐ हौं ॐ जूं सः भूर्भुवः स्व: उर्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय हां ह्रीं अनामिकाभ्यां हुम्।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो.भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय कनिष्ठिकाभ्यां वौषट् ।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय करतलकरपृष्ठाभ्यां फट् ।
*षडंग न्यास:*
ॐ हौं ॐ जूं सः भूर्भुवः स्वः त्र्यम्बकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा हृदयाय नमः ।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः यजामहे ॐ नमो भगवते रुद्राय अमृतमूर्तये मां जीवय जीवय शिरसे स्वाहा ।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः सुगन्धिम्पुष्टिवर्धनम् ॐ नमो भगवते रुद्राय चन्द्रशिरसे जटिने स्वाहा शिखायै वषट् ।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः उर्वारुकमिव बन्धनात् ॐ नमो भगवते रुद्राय त्रिपुरान्तकाय ह्रां ह्रीं कवचाय हुम्।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमो भगवते रुद्राय त्रिलोचनाय ऋग्यजुःसाममन्त्राय नेत्रत्रयाय वौषट् ।
ॐ हौं ॐ जूं सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय अग्नित्रयाय ज्वल ज्वल मां रक्ष रक्ष अघोरास्त्राय अस्त्राय फट ।।
*अथ वर्णन्यासः ।*
ॐ त्र्यं नमः दक्षिणचरणाग्रे ।
बं नमः कं नमः यं नमः जां नमः दक्षिणचरणसन्धिचतुष्केषु ।
मं नमः वामचरणाग्रे।
हे नमः सं नमः गं नमः धिं नमः वामचरणसन्धिचतुष्केषु ।
पुं नमः गुह्ये ।
ष्टिं नमः आधारे।
वं नमः जठरे ।
र्द्धं नमः हृदये।
नं नमः कण्ठे ।
ॐ नमः दक्षिणकराग्रे ।
उं नमः रुं नमः कं नमः मि नमः दक्षिणकरसन्धिचतुष्केषु ।
वं नमः वामकराग्रे ।
वं नमः धं नमः नां नमः मं नमः वामकरसन्धिचतुष्के ।
त्यो नमः वदने ।
मुं नमः ओष्ठयोः ।
क्षीं नमः घ्राणयोः ।
यं नमः दृशोः ।
मां नमः श्रवणयोः ।
मुं नमः भ्रुवोः ।
तां नमः शिरसि ।
*पदन्यास:*
त्र्यम्बकं शिरसि ।
यजामहे भ्रुवोः ।
सुगन्धि दृशोः।
पुष्टिवर्धनम् मुखे।
उर्वारुकं गण्डयोः।
इव हृदये।
बन्धनात्- जठरे,
मृर्त्यो -गुह्ये।
मुक्षीय-उर्वोः ।
मा जानुनोः ।
अमृतात पादयोः ॥
*अथ ध्यानम्*
*हस्ताभ्यां कलशद्वयामृतरसेराप्लवयन्तं शिरो,*
*द्वाभ्यां तो दधतं मृगाऽक्षवलये द्वाभ्यां वहन्तं परम् ।*
*अंकन्यस्तकरद्वयामृतघट कैलाशकान्तं शिवम्,*
*स्वच्छाम्भोजगतं नवेन्दुमुकुटाभान्तं त्रिनेत्रं भजे ॥१॥*
इति ध्यात्वा मानसोपचारैः सम्पूज्य पूर्ववत् मालापूजनं पूर्ववत् मूलमन्त्र जपेत् ।।
*।मन्त्रस्वरूपम् ।*
हौं ॐ जूं सः भूर्भुवः स्वः त्र्यम्बकं *यजामहे सुगन्धिम्पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् भूर्भुवः स्वरों जूं सः हौं ओम् ॥ १ ॥*
*जपान्ते प्रार्थना-*
मृत्युञ्जय महारुद्र त्राहि मां शरणागतम् ।
जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ १॥
तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
इति विज्ञाप्य देवेशं जपेन्मन्त्रञ्च त्र्यम्बकम् ॥ २॥
आचार्य श्री
टिप्पणियाँ