लक्ष्मीनारायण उपासना
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬● ❗❗ *आचार्य रुद्रेश्वरन* ❗❗ ●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬● ●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬● 👉🏻 प्रिय पाठकों------- "श्री लक्ष्मीनारायण साधना " श्री लक्ष्मीनारायण साधना मंत्र ।।ॐ तत्सत ।। ।।नारायण हृदयम् ।। ।।हरिः ओम् ।।☀️अस्य श्रीनारायण-हृदय-स्तोत्र-महामन्त्रस्य भार्गव ऋषिः अनुष्टुप् छन्दः लक्ष्मीनारायणो देवता नारायण प्रीत्यर्थे जपे विनियोगः ।। ☀️करन्यास नारायणः परं ज्योतिरिति अङ्गुष्ठाभ्यां नमः । नारायणः परं ब्रह्मेति तर्जनीभ्यां नमः । नारायणःपरो देव इति मध्यमाभ्यां नमः । नारायणःपरं धामेति अनामिकाभ्यां नमः । नारायणः परो धर्म इति कनिष्ठिकाभ्यां नमः । विश्वं नारायणः इति करतलपृष्ठाभ्यां नमः ।। ☀️अङ्गन्यास:- नारायणःपरं ज्योतिरिति हृदयाय नमः । नारायणःपरं ब्रह्मेति शिरसे स्वाहा । नारायणः परो देव इति शिखायै वौषट् । नारायणः परं धामेति कवचाय हुम् । नारायणः परो धर्म इति नेत्राभ्यां वौषट् । विश्वंनारायण इति अस्त्राय फट् । ...