श्रीविष्णुयामले बगलाखड्गमालामन्त्रः
विनियोगः- ॐ अस्य श्रीपीताम्बरा बगलामुखी खड्गमाला मन्त्रस्य नारायण ऋषिः, त्रिष्टुप् छन्दः, बगलामुखी देवता, ह्लीं बीजं, स्वाहा शक्तिः, ॐ कीलकं, ममाभीष्टसिद्धयर्थे सर्वशत्रु-क्षयार्थे जपे विनियोगः । हृदयादि-न्यासः-नारायण ऋषये नमः शिरसि, त्रिष्टुप् छन्दसे नमः मुखे, बगलामुखी देवतायै नमः हृदि, ह्लीं बीजाय नमः गुह्ये, स्वाहा शक्तये नमः पादयो, ॐ कीलकाय नमः नाभौ, ममाभीष्टसिद्धयर्थे सर्वशत्रु-क्षयार्थे जपे विनियोगाय नमः सर्वांगे । षडङ्ग-न्यास - कर-न्यास – अंग-न्यास - ॐ ह्लीं अंगुष्ठाभ्यां नमः हृदयाय नमः बगलामुखी तर्जनीभ्यां नमः शिरसे स्वाहा सर्वदुष्टानां मध्यमाभ्यां नमः शिखायै वषट् वाचं मुखं पद स्तम्भय अनामिकाभ्यां नमः कवचाय हुम् जिह्वां कीलय कनिष्ठिकाभ्यां नमः नेत्र-त्रयाय वौषट् बुद्धिं विनाशय ह्लीं ॐ स्वाहा करतल-कर-पृष्ठाभ्यां नमः अस्त्राय फट् ध्यानः- हाथ में पीले फूल, पीले अक्षत और जल लेकर ‘ध्यान’ करे - मध्ये सुधाब्धि-मणि-मण्डप-रत्न-वेद्यां, सिंहासनोपरि-गतां परि-पीत-वर्णाम् । पीताम्बराभरण-माल्य-विभूषितांगीं, देवीं स्मरामि धृत-मुद्-गर-वैरि-जिह्वाम् ।। जिह्वाग्रमादाय करेण देवीं, वामेन शत्रून् प...