संदेश

तुलासी लेबल वाली पोस्ट दिखाई जा रही हैं

तुलसी माहात्म्य

*तुलस्या माहात्म्य विषयक संग्रह*  “तुलस्याः शृणु माहात्म्यं पापघ्नं सर्व्वकामदम् ।   यत् पुरा विष्णुना प्रोक्तं तत्ते वक्ष्याम्यशेषतः ॥   सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्द्दनः ।   पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः ॥   दृष्टा स्पृष्टा तथा ध्याता कार्त्तिके नमितार्च्चिता ।   रोपिता सेविता नित्यं पापं हन्ति युगार्ज्जितम् ॥   अष्टधा तुलसी यैस्तु सेविता द्बिजसत्तम ! ।   युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥   रोपिता तुलसी यावत् कुरुते मूलविस्तृतम् ।   तावद्युगसहस्राणि तनोति सुकृतं हरिः ॥   तुलसीदलपुव्पाणि यो दद्याद्धरये मुने ! ।   कार्त्तिके सकलं पापं सोऽत्र जन्मार्ज्जितं दहेत् ॥  रोपिता तुलसी यावत् वर्द्धते वसुधातले ।   तावत्कल्पसहम्ग्नणि विष्णुलोके महीयते ॥   यत् फलं सव्वः सर्व्वपत्रेण यत् फलम् । तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्बिष्णुपूजने ॥   तुलसीगन्धमादाय यत्र गच्छति मारुतः ।   दिशो दश पुनात्याशु भूतग्रामांश्चतुर...