तुलसी माहात्म्य

*तुलस्या माहात्म्य विषयक संग्रह*

 “तुलस्याः शृणु माहात्म्यं पापघ्नं सर्व्वकामदम् । 
 यत् पुरा विष्णुना प्रोक्तं तत्ते वक्ष्याम्यशेषतः ॥  
सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्द्दनः ।  
पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः ॥  
दृष्टा स्पृष्टा तथा ध्याता कार्त्तिके नमितार्च्चिता ।  
रोपिता सेविता नित्यं पापं हन्ति युगार्ज्जितम् ॥  
अष्टधा तुलसी यैस्तु सेविता द्बिजसत्तम ! । 
 युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥  
रोपिता तुलसी यावत् कुरुते मूलविस्तृतम् । 
 तावद्युगसहस्राणि तनोति सुकृतं हरिः ॥ 
 तुलसीदलपुव्पाणि यो दद्याद्धरये मुने ! ।  
कार्त्तिके सकलं पापं सोऽत्र जन्मार्ज्जितं दहेत् ॥
 रोपिता तुलसी यावत् वर्द्धते वसुधातले ।  
तावत्कल्पसहम्ग्नणि विष्णुलोके महीयते ॥  
यत् फलं सव्वः सर्व्वपत्रेण यत् फलम् । तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्बिष्णुपूजने ॥ 
 तुलसीगन्धमादाय यत्र गच्छति मारुतः । 
 दिशो दश पुनात्याशु भूतग्रामांश्चतुर्व्विधान् ॥ 
 तुलसीकाननोद्भूता छाया यत्र भवेन्मुने ! । 
 तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥ 
 तुलसीवीजनिकरो यस्मिन् पतति वै मुने ! । 
 तत् स्थानं परमं ज्ञेयं पितॄणां प्रीतिवर्द्धनम् ॥  
यस्मिन् गृहे द्बिजश्रेष्ठ ! तुलसीतलमृत्तिका ।
  तत्रैव नोपसर्पन्ति भूतले यमकिङ्कराः ॥ 
 तुलसीमृत्तिकालिप्तो यदि प्राणान् परित्यजेत् ।  
यमेन नेक्षितुं शक्यो मुक्तः पापशतैरपि ॥ 
 तुलसीमृत्तिकालिप्तं ललाटं यस्य दृश्यते ।  
कुलं स्पृशति नो तस्य कलिर्मुनिवरोत्तम ! ॥  
यः कश्चित्तुलसीमूले कार्त्तिके केशवप्रियः । 
दीपं ददाति विप्रेन्द्र ! स लभेद्वैष्णवं पदम् ॥ 
 तुलसीकाननञ्चैव गृहे यस्यावतिष्ठते ।  
तद्गृहं तीर्थभूतं हि नायान्ति यमकिङ्कराः ॥ 
 दर्शनं नर्म्मदायास्तु गङ्गास्नानं तथैव च ।  
तुलसीवनसं सर्गः सममेतत्त्रयं स्मृतम् ॥  
रोपणात् पालनात् सेवाद्दर्शनात् स्पर्शनान्नृणाम् ।  
तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥ 
 तुलसीमञ्जरीभिर्यः कुर्य्याद्धरिहरार्च्चनम् । 
 न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥  
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।  
वासुदेवादयो देवा वसन्ति तुलसीदले ॥ 
 तुलसीमञ्जरीयुक्तो यस्तु प्राणान् विमुञ्चति ।  
यमो न वीक्षितुं शक्तो युक्तः पापशतैरपि ॥” 

 *इति पाद्मोत्तरखण्डम् ॥ * ॥*
 “यत्रैकस्तुलसीवृक्षस्तिष्ठति द्विजसत्तम ! ।  
तत्रैव त्रिदशाः सर्व्वे ब्रह्मविष्णुशिवादयः ॥ . केशवः पत्रमध्येषु पत्राग्रेषु प्रजापतिः । 
 पत्रवृन्ते शिवस्तिष्ठेत् तुलस्याः सर्व्वदैव हि ॥  
लक्ष्मीः सरस्वती चैव गायत्त्री चण्डिका तथा ।
  शची चान्या देवपत्न्यस्तत्पुष्पेषु वसन्ति वै ॥ 
 इन्द्रोऽग्निः शमनश्चैव नैरृ तो वरुणस्तथा ।
  पवनश्च कुवेरश्च तच्छाखायां वसन्त्यमी ॥ 
 आदित्यादिग्रहाः सर्व्वे विश्वेदेवाश्च सर्व्वदा । 
 वसवो मनवश्चैव तथा देवर्षयोऽखिलाः ॥ 
 विद्याधराश्च गन्धर्व्वाः सिद्धाश्चाप्सरसस्तथा । 
 तुलसीपत्रमाश्रित्य सर्व्वदा निवसन्ति वै ॥  
चिन्वन्ति तृणजातीनि तुलसीमूलजानि वै । 
 तद्देहस्था ब्रह्महत्याश्चिनोति तत्क्षणाद्धरिः ॥  
ग्रीष्मकाले द्विजश्रेष्ठ !
 सुगन्धैः शीतलैर्जलैः ।  तुलसीसेचनं कृत्वा नरो निर्व्वाणमाप्नुयात् ॥
  चन्द्रातपं वा छत्रं वा तुलस्यै यस्तु यच्छति । 
 विशेयतो निदाघेषु स मुक्तः सर्व्वपातकैः ॥ 
 वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः ।  
सन्यथेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः ॥ 
 कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः ।  
तस्य वेश्मनि विप्रर्षे ! लक्ष्मीर्भवति निश्चला ॥  गोमयैस्तुलसीमूले यः कुर्य्यादनुलेपनम् ।
  सम्मार्जनञ्च कुरुते तस्य पुण्यफलं शृणु ॥ 
 रजांसि तस्य यावन्ति दूरीभूतानि जैमिने ! ।  
तावत्कल्पसहस्राणि मोदते ब्रह्मणा सह ॥  
यद्धर्म्मकर्म्म कुरुते मनुजः पृथिव्यांनारायणप्रियतमां तुलसीं विना च ।  
तत् सर्व्वमेव विफलं भवति द्विजेन्द्र !  
पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ॥ 
 यस्य स्यात् तुलसीपत्रं मुखे शिरसि कर्णयोः । 
  मृत्युकाले द्बिजश्रेष्ठ ! तस्य स्वामी न भास्करिः ॥”
  *इति पाद्मे क्रियायोगसारः ॥* ॥ 


 “स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
  तुलसीपत्रतोये च योऽभिषेकं समाचरेत् ॥  
गवामयुतदानेन यत् फलं लभते नरः । 
 तुलसीपत्रदानेन तत् फलं कार्त्तिके सति ॥ 
 तुलसीतोयकणिकां मृत्युकाले च यो लभेत् । 
 रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च ॥  
त्रिकालं तुलसीपत्रं शुद्धं पर्युषितं सति । 
 श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्च्चने ॥   
भूगतं तोयपतितं यद्दत्तं विष्णवे सति । 
 शुद्धन्तु तुलसीपत्रं क्षालनादन्यकर्म्मणि ॥” * ॥  

*तुलसीचयननिषेधकालो यथा*- 
“पूर्णिमायाममायाञ्च द्बादश्यां रविसंक्रमे ।  
तैलाभ्यङ्गे च स्नातेन मध्याह्ने निशिसन्ध्ययोः ॥ 
 अशौचेऽशुचिकाले च रात्रिवासान्वितेऽपि वा । 
 तुलसीं ये च चिन्वन्ति ते छिन्दन्ति हरेः  शिरः ॥” * ॥  

*तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे च  दोषो यथा  -* 
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।   
स याति कालसूत्रञ्च यावच्चन्द्रदिवाकरौ ॥  
करोति मिथ्याशपथं तुलस्या यो हि मानवः । 
स याति कुम्भीपाकञ्च यावदिन्द्राश्चतुर्द्दश ॥”  

इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्

 *तुलसीपत्रचयने मन्त्रा यथा  -*

  “मातस्तुलसि गोविन्दहृदयानन्दकारिणि ! । 
 नारायणस्य पूजार्थं चिनोमि त्वां नमोऽस्तु ते ॥  
कुसुमैः पारिजाताद्यैः सुगन्धैरपि केशवः ।
  त्वया विना नैव तृप्तिं चिनोमि त्वामतः शुभे ॥  
त्वया विना महाभागे समस्तं कर्म्म निष्फलम् ।
  अतस्तुलसि देवि ! त्वां चिनोमि वरदा भव ॥  
चयनोद्भवदुःखं यद्देवि ! ते हृदि वर्त्तते । 
 तत् क्षमस्व जगन्मातस्तुलसि ! 
त्वां नमाम्यहम् ॥  
कृताञ्जलिरिमान्मन्त्रान् पठित्वा वैष्णवो जनः ।  
करतालत्रयं दत्त्वा चिनुयात्तुलसीदलम् ॥  
शनैः शनैस्तथाकारैश्चीयते तुलसीदलम् ।  
यथा न कम्पते शाखा तुलस्या द्बिजसत्तम ! ॥  
पत्राणां चयने विप्र ! भग्नशाखा यथा भवेत् ।  तथा हृदि व्यथा विष्णोर्द्दीयते तुलसीपतेः ॥”  इति पाद्मे क्रियायोगसारः ॥ * ॥  

 *तुलसीकाष्ठमालामाहात्म्यं यथा*

 “तुलसीकाष्ठनिर्म्माणमालां गृह्णन्ति ये नराः ।  पदे पदेऽश्वमेधानां लभते निश्चितं फलम् ॥”  
*इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥*

 “सात्वतैस्तुलसीकाष्ठमाला कुञ्जसमुद्भवा ।  
धार्य्या नित्यं प्रयत्नेन त्वेतद्भक्तस्य लक्षणम् ॥ 
 हरिभक्तस्य तुलसीकुञ्जकाष्ठसमुद्भवा । 
 चिह्नार्थमात्मनो माला पुरा कृष्णेन दर्शिता ॥”  इति पाद्मोत्तरखण्डम् ॥ * ॥  

*गणेशपूजने तुलसीनिषेधो यथा* 

तुलसीं प्रति  गणेशवाक्यम् ।  “पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे ! ।
  कलांशेन महाभागे ! स्वयं नारायणप्रिया ॥  
प्रिया त्वं सर्व्वदेवानां कृष्णस्य च विशेषतः । 
 पूजा विमुक्तिदा नॄणां मम त्याज्या च सर्व्वदा ॥”  
*इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥* ॥ 

 *तुलस्याः स्तवो यथा*  -

 नारायण उवाच
“वृन्दां वृन्दावनीं विश्वपूजितां विश्वपावनीम् । 
 पुष्पसारां नन्दिनीञ्च तुलसीं कृष्णजीवनीम् ॥  एतन्नामाष्टकञ्चैतत् स्तोत्रं नानार्थसंयुतम् ।  
यः पठेत्ताञ्च संपूज्य सोऽश्वमेधफलं लभेत् ॥”  इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥ 

 *महादेवाय तस्याः पत्रदानफलं* -
 “गयाश्राद्धफलं दातुः पितॄणां परितोषदम् ।  
तत्फलं स्याच्छतगुणं तुलसीपत्रदानतः ॥”  *इति बृहद्धर्म्मपुराणे १० अध्यायः ॥ * ॥*


तस्यास्तन्मञ्जर्य्याश्च हरिहरपूजने मुक्तिप्रदत्वं  पाद्मे देवदूतविकुण्डलसंवादे ।  “तुलसीमञ्जरीभिर्य्यः कुर्य्याद्धरिहरार्च्चनम् । 
 न स गर्भगृहं याति मुक्तिभागी भवेन्नरः
 *॥”  इति श्रीहरिभक्तिविलासे ७ विलासः ॥*

*तत्पत्रेण शक्तिपूजाविधिर्यथा  -*
 “वाजिदन्तकपत्रैश्च पुष्पौघैरपि चण्डिकाम् । 
 तुलसीकुसुमैः पत्रैरर्च्चयेच्छ्रीविवृद्धये ॥”

  *इति श्रीकालिकापुराणे ६८ अध्यायः ॥*

*अथ तुलसीग्रहणविधिः ।* वायुपुराणे । 

 “अस्नात्वा तुलसीं छित्त्वा यः पूजां कुरुते नरः । 
 सोऽपराधी भवेत् सत्यं तत् सर्व्वं निष्फलं भवेत् ॥”  

*तत्रादौ मन्त्रः । स्कान्दे*

“तुलस्यमृतजन्मासि सदां त्वं केशवप्रिया ।  
केशवार्थे चिनोमि त्वां वरदा भव शोभने ॥ 
 त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम् ।  
तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि ! ॥”  

*गारुडे च*
 “मोक्षैकहेतो धरणीप्रशस्ते  विष्णोः समस्तस्य गुरोः प्रियेति । 
 आराधनार्थं वरमञ्जरीकं  लुनामि पत्रं तुलसि ! क्षमस्व ॥   
इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणपाणिना ।  
पत्राण्येकैकशो न्यस्येत् सत्पात्रे मञ्जरीरपि ॥”  तन्माहात्म्यञ्च स्कान्दे । 
 “मन्त्रेणानेन यः कुर्य्याद् गृहीत्वा तुलसीदलम् । 
 पूजनं वासुदेवस्य लक्षकोटिफलं लभेत् ॥” 
 किञ्च ।  “शालग्रामशिलार्च्चार्थं प्रत्यहं तलसीक्षितौ ।  

तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः ॥” 

*अथ तुलस्यवचयनिषेधकालः*
 “संक्रान्त्यादौ निषिद्धोऽपि तुलस्यवचयः स्मृतः ।
 परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते ॥” 
 ।
 विष्णु धर्म्मोत्तरे ।  
“न छिन्द्यात् तुलसीं विप्रा द्बादश्यां वैष्णवः  क्वचित् ॥”  

*गारुडे*

“भानुवारं विना दूर्व्वां तुलसीं द्वादशीं विना । 
 जीवितस्याविनाशाय न विचित्वीत धर्म्मवित् ॥” 
 पाद्मे च ।  श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये ।  
“द्वादश्यां तुलसीपत्रं धात्रीपत्रञ्च कार्त्तिके ।  
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् ॥”  अतएवोक्तम् ।  
“देवार्थे तुलसीच्छेदो होमार्थे समिधान्तथा ।
  इन्दूक्षये न दुष्येत गवार्थे तु तृणस्य च ॥  एवं कृत्वा महापूजामङ्गोपाङ्गादिकं प्रभोः ।  क्रमाद्यथा सम्प्रदायं तत्तत्स्थानेषु पूजयेत् ॥”  इति श्रीहरिभक्तिविलासे ७ विलासः ॥

टिप्पणियाँ