तुलसी माहात्म्य
*तुलस्या माहात्म्य विषयक संग्रह*
“तुलस्याः शृणु माहात्म्यं पापघ्नं सर्व्वकामदम् ।
यत् पुरा विष्णुना प्रोक्तं तत्ते वक्ष्याम्यशेषतः ॥
सम्प्राप्तं कार्त्तिकं दृष्ट्वा नियमेन जनार्द्दनः ।
पूजनीयो महद्भिश्च कोमलैस्तुलसीदलैः ॥
दृष्टा स्पृष्टा तथा ध्याता कार्त्तिके नमितार्च्चिता ।
रोपिता सेविता नित्यं पापं हन्ति युगार्ज्जितम् ॥
अष्टधा तुलसी यैस्तु सेविता द्बिजसत्तम ! ।
युगकोटिसहस्राणि ते वसन्ति हरेर्गृहे ॥
रोपिता तुलसी यावत् कुरुते मूलविस्तृतम् ।
तावद्युगसहस्राणि तनोति सुकृतं हरिः ॥
तुलसीदलपुव्पाणि यो दद्याद्धरये मुने ! ।
कार्त्तिके सकलं पापं सोऽत्र जन्मार्ज्जितं दहेत् ॥
रोपिता तुलसी यावत् वर्द्धते वसुधातले ।
तावत्कल्पसहम्ग्नणि विष्णुलोके महीयते ॥
यत् फलं सव्वः सर्व्वपत्रेण यत् फलम् । तुलस्यास्तद्दलार्द्धेन पुण्यं स्याद्बिष्णुपूजने ॥
तुलसीगन्धमादाय यत्र गच्छति मारुतः ।
दिशो दश पुनात्याशु भूतग्रामांश्चतुर्व्विधान् ॥
तुलसीकाननोद्भूता छाया यत्र भवेन्मुने ! ।
तत्र श्राद्धं प्रदातव्यं पितॄणां तृप्तिहेतवे ॥
तुलसीवीजनिकरो यस्मिन् पतति वै मुने ! ।
तत् स्थानं परमं ज्ञेयं पितॄणां प्रीतिवर्द्धनम् ॥
यस्मिन् गृहे द्बिजश्रेष्ठ ! तुलसीतलमृत्तिका ।
तत्रैव नोपसर्पन्ति भूतले यमकिङ्कराः ॥
तुलसीमृत्तिकालिप्तो यदि प्राणान् परित्यजेत् ।
यमेन नेक्षितुं शक्यो मुक्तः पापशतैरपि ॥
तुलसीमृत्तिकालिप्तं ललाटं यस्य दृश्यते ।
कुलं स्पृशति नो तस्य कलिर्मुनिवरोत्तम ! ॥
यः कश्चित्तुलसीमूले कार्त्तिके केशवप्रियः ।
दीपं ददाति विप्रेन्द्र ! स लभेद्वैष्णवं पदम् ॥
तुलसीकाननञ्चैव गृहे यस्यावतिष्ठते ।
तद्गृहं तीर्थभूतं हि नायान्ति यमकिङ्कराः ॥
दर्शनं नर्म्मदायास्तु गङ्गास्नानं तथैव च ।
तुलसीवनसं सर्गः सममेतत्त्रयं स्मृतम् ॥
रोपणात् पालनात् सेवाद्दर्शनात् स्पर्शनान्नृणाम् ।
तुलसी दहते पापं वाङ्मनःकायसञ्चितम् ॥
तुलसीमञ्जरीभिर्यः कुर्य्याद्धरिहरार्च्चनम् ।
न स गर्भगृहं याति मुक्तिभागी भवेन्नरः ॥
पुष्कराद्यानि तीर्थानि गङ्गाद्याः सरितस्तथा ।
वासुदेवादयो देवा वसन्ति तुलसीदले ॥
तुलसीमञ्जरीयुक्तो यस्तु प्राणान् विमुञ्चति ।
यमो न वीक्षितुं शक्तो युक्तः पापशतैरपि ॥”
*इति पाद्मोत्तरखण्डम् ॥ * ॥*
“यत्रैकस्तुलसीवृक्षस्तिष्ठति द्विजसत्तम ! ।
तत्रैव त्रिदशाः सर्व्वे ब्रह्मविष्णुशिवादयः ॥ . केशवः पत्रमध्येषु पत्राग्रेषु प्रजापतिः ।
पत्रवृन्ते शिवस्तिष्ठेत् तुलस्याः सर्व्वदैव हि ॥
लक्ष्मीः सरस्वती चैव गायत्त्री चण्डिका तथा ।
शची चान्या देवपत्न्यस्तत्पुष्पेषु वसन्ति वै ॥
इन्द्रोऽग्निः शमनश्चैव नैरृ तो वरुणस्तथा ।
पवनश्च कुवेरश्च तच्छाखायां वसन्त्यमी ॥
आदित्यादिग्रहाः सर्व्वे विश्वेदेवाश्च सर्व्वदा ।
वसवो मनवश्चैव तथा देवर्षयोऽखिलाः ॥
विद्याधराश्च गन्धर्व्वाः सिद्धाश्चाप्सरसस्तथा ।
तुलसीपत्रमाश्रित्य सर्व्वदा निवसन्ति वै ॥
चिन्वन्ति तृणजातीनि तुलसीमूलजानि वै ।
तद्देहस्था ब्रह्महत्याश्चिनोति तत्क्षणाद्धरिः ॥
ग्रीष्मकाले द्विजश्रेष्ठ !
सुगन्धैः शीतलैर्जलैः । तुलसीसेचनं कृत्वा नरो निर्व्वाणमाप्नुयात् ॥
चन्द्रातपं वा छत्रं वा तुलस्यै यस्तु यच्छति ।
विशेयतो निदाघेषु स मुक्तः सर्व्वपातकैः ॥
वैशाखेऽक्षतधाराभिरद्भिर्यस्तुलसीं जनः ।
सन्यथेत् सोऽश्वमेधस्य फलं प्राप्नोति नित्यशः ॥
कदाचित्तुलसीं दुग्धैः सेचयेद्यो नरोत्तमः ।
तस्य वेश्मनि विप्रर्षे ! लक्ष्मीर्भवति निश्चला ॥ गोमयैस्तुलसीमूले यः कुर्य्यादनुलेपनम् ।
सम्मार्जनञ्च कुरुते तस्य पुण्यफलं शृणु ॥
रजांसि तस्य यावन्ति दूरीभूतानि जैमिने ! ।
तावत्कल्पसहस्राणि मोदते ब्रह्मणा सह ॥
यद्धर्म्मकर्म्म कुरुते मनुजः पृथिव्यांनारायणप्रियतमां तुलसीं विना च ।
तत् सर्व्वमेव विफलं भवति द्विजेन्द्र !
पद्मेक्षणोऽपि न हि तुष्यति देवदेवः ॥
यस्य स्यात् तुलसीपत्रं मुखे शिरसि कर्णयोः ।
मृत्युकाले द्बिजश्रेष्ठ ! तस्य स्वामी न भास्करिः ॥”
*इति पाद्मे क्रियायोगसारः ॥* ॥
“स स्नातः सर्व्वतीर्थेषु सर्व्वयज्ञेषु दीक्षितः ।
तुलसीपत्रतोये च योऽभिषेकं समाचरेत् ॥
गवामयुतदानेन यत् फलं लभते नरः ।
तुलसीपत्रदानेन तत् फलं कार्त्तिके सति ॥
तुलसीतोयकणिकां मृत्युकाले च यो लभेत् ।
रत्नयानं समारुह्य वैकुण्ठं स प्रयाति च ॥
त्रिकालं तुलसीपत्रं शुद्धं पर्युषितं सति ।
श्राद्धे व्रते वा दाने वा प्रतिष्ठायां सुरार्च्चने ॥
भूगतं तोयपतितं यद्दत्तं विष्णवे सति ।
शुद्धन्तु तुलसीपत्रं क्षालनादन्यकर्म्मणि ॥” * ॥
*तुलसीचयननिषेधकालो यथा*-
“पूर्णिमायाममायाञ्च द्बादश्यां रविसंक्रमे ।
तैलाभ्यङ्गे च स्नातेन मध्याह्ने निशिसन्ध्ययोः ॥
अशौचेऽशुचिकाले च रात्रिवासान्वितेऽपि वा ।
तुलसीं ये च चिन्वन्ति ते छिन्दन्ति हरेः शिरः ॥” * ॥
*तुलसीस्पर्शनेन मिथ्याप्रतिज्ञायां मिथ्याशपथे च दोषो यथा -*
तुलसीं स्वकरे कृत्वा स्वीकारं यो न रक्षति ।
स याति कालसूत्रञ्च यावच्चन्द्रदिवाकरौ ॥
करोति मिथ्याशपथं तुलस्या यो हि मानवः ।
स याति कुम्भीपाकञ्च यावदिन्द्राश्चतुर्द्दश ॥”
इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्
*तुलसीपत्रचयने मन्त्रा यथा -*
“मातस्तुलसि गोविन्दहृदयानन्दकारिणि ! ।
नारायणस्य पूजार्थं चिनोमि त्वां नमोऽस्तु ते ॥
कुसुमैः पारिजाताद्यैः सुगन्धैरपि केशवः ।
त्वया विना नैव तृप्तिं चिनोमि त्वामतः शुभे ॥
त्वया विना महाभागे समस्तं कर्म्म निष्फलम् ।
अतस्तुलसि देवि ! त्वां चिनोमि वरदा भव ॥
चयनोद्भवदुःखं यद्देवि ! ते हृदि वर्त्तते ।
तत् क्षमस्व जगन्मातस्तुलसि !
त्वां नमाम्यहम् ॥
कृताञ्जलिरिमान्मन्त्रान् पठित्वा वैष्णवो जनः ।
करतालत्रयं दत्त्वा चिनुयात्तुलसीदलम् ॥
शनैः शनैस्तथाकारैश्चीयते तुलसीदलम् ।
यथा न कम्पते शाखा तुलस्या द्बिजसत्तम ! ॥
पत्राणां चयने विप्र ! भग्नशाखा यथा भवेत् । तथा हृदि व्यथा विष्णोर्द्दीयते तुलसीपतेः ॥” इति पाद्मे क्रियायोगसारः ॥ * ॥
*तुलसीकाष्ठमालामाहात्म्यं यथा*
“तुलसीकाष्ठनिर्म्माणमालां गृह्णन्ति ये नराः । पदे पदेऽश्वमेधानां लभते निश्चितं फलम् ॥”
*इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥*
“सात्वतैस्तुलसीकाष्ठमाला कुञ्जसमुद्भवा ।
धार्य्या नित्यं प्रयत्नेन त्वेतद्भक्तस्य लक्षणम् ॥
हरिभक्तस्य तुलसीकुञ्जकाष्ठसमुद्भवा ।
चिह्नार्थमात्मनो माला पुरा कृष्णेन दर्शिता ॥” इति पाद्मोत्तरखण्डम् ॥ * ॥
*गणेशपूजने तुलसीनिषेधो यथा*
तुलसीं प्रति गणेशवाक्यम् । “पुष्पाणां सारभूता त्वं भविष्यसि मनोरमे ! ।
कलांशेन महाभागे ! स्वयं नारायणप्रिया ॥
प्रिया त्वं सर्व्वदेवानां कृष्णस्य च विशेषतः ।
पूजा विमुक्तिदा नॄणां मम त्याज्या च सर्व्वदा ॥”
*इति ब्रह्मवैवर्त्ते गणेशखण्डम् ॥* ॥
*तुलस्याः स्तवो यथा* -
नारायण उवाच
“वृन्दां वृन्दावनीं विश्वपूजितां विश्वपावनीम् ।
पुष्पसारां नन्दिनीञ्च तुलसीं कृष्णजीवनीम् ॥ एतन्नामाष्टकञ्चैतत् स्तोत्रं नानार्थसंयुतम् ।
यः पठेत्ताञ्च संपूज्य सोऽश्वमेधफलं लभेत् ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम् ॥
*महादेवाय तस्याः पत्रदानफलं* -
“गयाश्राद्धफलं दातुः पितॄणां परितोषदम् ।
तत्फलं स्याच्छतगुणं तुलसीपत्रदानतः ॥” *इति बृहद्धर्म्मपुराणे १० अध्यायः ॥ * ॥*
तस्यास्तन्मञ्जर्य्याश्च हरिहरपूजने मुक्तिप्रदत्वं पाद्मे देवदूतविकुण्डलसंवादे । “तुलसीमञ्जरीभिर्य्यः कुर्य्याद्धरिहरार्च्चनम् ।
न स गर्भगृहं याति मुक्तिभागी भवेन्नरः
*॥” इति श्रीहरिभक्तिविलासे ७ विलासः ॥*
*तत्पत्रेण शक्तिपूजाविधिर्यथा -*
“वाजिदन्तकपत्रैश्च पुष्पौघैरपि चण्डिकाम् ।
तुलसीकुसुमैः पत्रैरर्च्चयेच्छ्रीविवृद्धये ॥”
*इति श्रीकालिकापुराणे ६८ अध्यायः ॥*
*अथ तुलसीग्रहणविधिः ।* वायुपुराणे ।
“अस्नात्वा तुलसीं छित्त्वा यः पूजां कुरुते नरः ।
सोऽपराधी भवेत् सत्यं तत् सर्व्वं निष्फलं भवेत् ॥”
*तत्रादौ मन्त्रः । स्कान्दे*
“तुलस्यमृतजन्मासि सदां त्वं केशवप्रिया ।
केशवार्थे चिनोमि त्वां वरदा भव शोभने ॥
त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम् ।
तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि ! ॥”
*गारुडे च*
“मोक्षैकहेतो धरणीप्रशस्ते विष्णोः समस्तस्य गुरोः प्रियेति ।
आराधनार्थं वरमञ्जरीकं लुनामि पत्रं तुलसि ! क्षमस्व ॥
इत्युक्त्वा तुलसीं नत्वा चित्वा दक्षिणपाणिना ।
पत्राण्येकैकशो न्यस्येत् सत्पात्रे मञ्जरीरपि ॥” तन्माहात्म्यञ्च स्कान्दे ।
“मन्त्रेणानेन यः कुर्य्याद् गृहीत्वा तुलसीदलम् ।
पूजनं वासुदेवस्य लक्षकोटिफलं लभेत् ॥”
किञ्च । “शालग्रामशिलार्च्चार्थं प्रत्यहं तलसीक्षितौ ।
तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः ॥”
*अथ तुलस्यवचयनिषेधकालः*
“संक्रान्त्यादौ निषिद्धोऽपि तुलस्यवचयः स्मृतः ।
परं श्रीविष्णुभक्तैस्तु द्वादश्यामेव नेष्यते ॥”
।
विष्णु धर्म्मोत्तरे ।
“न छिन्द्यात् तुलसीं विप्रा द्बादश्यां वैष्णवः क्वचित् ॥”
*गारुडे*
“भानुवारं विना दूर्व्वां तुलसीं द्वादशीं विना ।
जीवितस्याविनाशाय न विचित्वीत धर्म्मवित् ॥”
पाद्मे च । श्रीकृष्णसत्यासंवादीयकार्त्तिकमाहात्म्ये ।
“द्वादश्यां तुलसीपत्रं धात्रीपत्रञ्च कार्त्तिके ।
लुनाति स नरो गच्छेन्निरयानतिगर्हितान् ॥” अतएवोक्तम् ।
“देवार्थे तुलसीच्छेदो होमार्थे समिधान्तथा ।
इन्दूक्षये न दुष्येत गवार्थे तु तृणस्य च ॥ एवं कृत्वा महापूजामङ्गोपाङ्गादिकं प्रभोः । क्रमाद्यथा सम्प्रदायं तत्तत्स्थानेषु पूजयेत् ॥” इति श्रीहरिभक्तिविलासे ७ विलासः ॥
टिप्पणियाँ