संदेश

रामायन लेबल वाली पोस्ट दिखाई जा रही हैं

रामायणकाव्यरचनम्

*रामायणकाव्यरचनम्* *वाल्मीकिरामयणं सप्तकाण्डेषु विभज्यते।* *प्रथमंकाण्डम् -  बालकाण्डम्:-*  रामस्य जननं, बाल्यं, वनवासात् पूर्वं विश्वामित्रर्षेः आज्ञया तेन सह राक्षससंहारार्थं वनगमनं,अहिल्याउद्धारम्,सीतास्वयंवरश्च -एताः घटनाः बालकाण्डे अन्तर्भवन्ति । *द्वितीयकाण्डम् - अयोध्याकाण्डम्:-* अस्मिन् भागे कैकेय्या याचितयोः द्वयोः वरयोः मध्ये एकस्य वरस्य पूरणरूपेण रामस्य वनवासः भवति । दशरथः पुत्रशोकात् मरणं प्राप्नोति । *तृतीयकाण्डम् - अरण्यकाण्डम्:-*  अस्मिन् भागे (काण्डे) वने रामस्य जीवनरीतिः, सीतापहरणं च चित्रितमस्ति । *चतुर्थकाण्डम् - किष्किन्धाकाण्डम्:-* सीतामन्विष्यन् रामः किष्किन्धानामकं वानरसाम्राज्यं प्राप्नोति । तत्र सुग्रीवः हनुमान् इत्यादिभिः कपिभिः सह तस्य सख्यम् भवति । वानरसैन्यं सीतामन्वेष्टुं प्रवर्तते । *पञ्चमंकाण्डम् - सुन्दरकाण्डम्:-*  अत्रहनुमद्विषये विवरणमस्ति । हनुमतः अपरं नाम सुन्दरः इति । तत्कारणात् अस्य काण्डस्य नाम सुन्दरकाण्डमित्यस्ति । एषः समुद्रोल्लङ्घनं कृत्वा (समुद्रमुल्लङ्घ्य) लङ्कां प्रविशति । सीता रावणराज्ये लङ्कायाम् अशोकवने अस्ति इति ज्ञा...