रामायणकाव्यरचनम्

*रामायणकाव्यरचनम्*

*वाल्मीकिरामयणं सप्तकाण्डेषु विभज्यते।*

*प्रथमंकाण्डम् -  बालकाण्डम्:-* 
रामस्य जननं, बाल्यं, वनवासात् पूर्वं विश्वामित्रर्षेः आज्ञया तेन सह राक्षससंहारार्थं वनगमनं,अहिल्याउद्धारम्,सीतास्वयंवरश्च -एताः घटनाः बालकाण्डे अन्तर्भवन्ति ।

*द्वितीयकाण्डम् - अयोध्याकाण्डम्:-*
अस्मिन् भागे कैकेय्या याचितयोः द्वयोः वरयोः मध्ये एकस्य वरस्य पूरणरूपेण रामस्य वनवासः भवति । दशरथः पुत्रशोकात् मरणं प्राप्नोति ।

*तृतीयकाण्डम् - अरण्यकाण्डम्:-* 
अस्मिन् भागे (काण्डे) वने रामस्य जीवनरीतिः, सीतापहरणं च चित्रितमस्ति ।

*चतुर्थकाण्डम् - किष्किन्धाकाण्डम्:-* सीतामन्विष्यन् रामः किष्किन्धानामकं वानरसाम्राज्यं प्राप्नोति । तत्र सुग्रीवः हनुमान् इत्यादिभिः कपिभिः सह तस्य सख्यम् भवति । वानरसैन्यं सीतामन्वेष्टुं प्रवर्तते ।

*पञ्चमंकाण्डम् - सुन्दरकाण्डम्:-*
 अत्रहनुमद्विषये विवरणमस्ति । हनुमतः अपरं नाम सुन्दरः इति । तत्कारणात् अस्य काण्डस्य नाम सुन्दरकाण्डमित्यस्ति । एषः समुद्रोल्लङ्घनं कृत्वा (समुद्रमुल्लङ्घ्य) लङ्कां प्रविशति । सीता रावणराज्ये लङ्कायाम् अशोकवने अस्ति इति ज्ञात्वा रामाय विषयं निवेदयति ।

*षष्ठमंकाण्डम् - युद्धकाण्डम्:-* 
अस्मिन् काण्डे रामरावणयोः युद्धस्य विवरणमस्ति । रावणसंहारानन्तरं रामः स्वजनैः सह अयोध्यामागच्छति । श्रीरामस्य राज्याभिषेकस्य विवरणमस्ति । अस्य अपरं नाम लङकाकाण्डम् अपि अस्ति।

*सप्तमंकाण्डमुत्तरकाण्डम्:-* 
सीतारामौ वनवासानन्तरम् अयोध्यायां कथं जीवनं यापितवन्तौ इति चित्रितमस्ति । रजकस्य अवाच्यवचनकारणात् रामः सीतां परित्यजति वनं प्रेषयति च । 
कालान्तरे रामावतारपरिसमाप्तिपर्यन्तं कथा अनुवर्तते ।

वाल्मीकिरामायणस्य प्रथमान्तिमकाण्डयोः रचयिता वाल्मीकिः एव वा इति सन्देहः वर्तते । यतः अनयोः द्वयो काण्डयोः अवशिष्टानाम् अन्येषां पञ्चानां काण्डानां च लेखनशैली भिन्ना वर्तते, कथायां च विरोधाभासः अस्ति । तथापि एतौ द्वावपि काण्डौ रामायणस्य अविभाज्याङ्गौ इति तु सत्यमेव इति ज्ञानिनामभिप्रायः । रामस्य दैवांशत्वं, तस्य जन्म, रावणविषये दन्तकथाः ईदृशाः पौराणिकांशानां बहुभागाः अनयोः अध्याययोः एव द्र्ष्टुं शक्यन्ते ।

रामाय नमः
👏🏻👏🏻👏🏻👏🏻👏🏻

टिप्पणियाँ