अथ श्रीभैरवताण्डवस्तोत्रम्
श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । श्रीगुरवे नमः । श्रीभैरवाय नमः ॥ अथ श्रीभैरवताण्डवस्तोत्रम् । ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरं लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् । डमरुध्वनिशङ्खं तरलवतंसं मधुरहसन्तं लोकभरं भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ॥ १॥ चर्चितसिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरं किङ्किणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् । करुणामयवेशं सकलसुरेशं मुक्तसुकेशं पापहरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेषं कष्टहरम् ॥ २॥ कलिमलसंहारं मदनविहारं फणिपतिहारं शीघ्रकरं कलुषं शमयन्तं परिभृतसन्तं मत्तदृगन्तं शुद्धतरम् । गतिनिन्दितकेशं नर्तनदेशं स्वच्छकशं सन्मुण्डकरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ३॥ कठिनस्तनकुम्भं सुकृतं सुलभं कालीडिम्भं खड्गधरं वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् । तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरं भज भज भूतेशं प्रकटमहेशं श्रीभैरववेशं कष्टहरम् ॥ ४॥ ललिताननचन्द्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरं सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् । वरदाभयहारं तरलिततारं क्...