संदेश

रजत लेबल वाली पोस्ट दिखाई जा रही हैं

चांदी का दान करना या लेना चाहिए या नही

। शिवनेत्रोद्भवं तस्माद्दत्तं तत् पितृवल्लभम् ।  अमङ्गलं तद्यज्ञेषु देवकार्य्येषु वर्ज्जितम् ॥ “ इति मात्स्ये १७ अध्यायः ॥ सौरर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ।  रजतस्य कथा वापि दर्शनं दानमेव वा ॥  राजतैर्भाजनैरेषामथवा रजतान्वितैः ।  वार्य्यपि श्रद्धया दत्तमक्षयायोपकल्प्यते ॥ यथार्घ्यपिण्डभोज्यादौ पितृणां राजतं मतम्। त्रिपुरस्य बधार्थाय निर्न्निमिषैर्विलोचनैः ।  निरीक्षयामास शिवः क्रोधेन परिपूरितः ।  अग्निस्तत्कालमपतत्तस्यैकस्माद्विलोचनात् ।  ततोरुद्रः समभवद्वैश्वानर इव ज्वलन् । द्वितीयादपतन्नेत्रादश्रुविन्दुस्तु वामकात् ।  तस्माद्रजतमुत्पन्नमुक्तकर्मसु योजयेत् ।