कितने एकादशी श्लोक सहित
मासे मासे पृथग्भूता सैव सर्वव्रतोत्तमा । तस्याः षड्विंशतिं नाम्नां वक्ष्यामि हितकाम्यया ।। उत्पत्तिश्च तथा मोक्षा सफला च ततः परम् । पुत्रदा षट्तिला चैव जया च विजया तथा ॥ आमलकी तथा पश्चान्नाम्ना वै पापमोचनी । कामदा च ततः पश्चात्कथिता वै वरूथिनी ॥ मोहिनी चापरा प्रोक्ता निर्जला कथिता ततः । योगिनी देवशयनी कामिनी च ततः परम् ॥ पवित्रा चाप्यजा पद्मा इन्दिरा च ततः परम् । पाशाङ्कुशा रमा चैव ततः पश्चात्प्रबोधिनी ॥ सर्वसम्पत्प्रदा चैव द्वे प्रोक्ते मलमासजे । एवं षड्विंशतिं नाम्नामेकादश्याः पठेच्च यः ॥ संवत्सरद्वादशीनां फलमाप्नोति सोऽपि हि ।