कितने एकादशी श्लोक सहित
मासे मासे पृथग्भूता सैव सर्वव्रतोत्तमा ।
तस्याः षड्विंशतिं नाम्नां वक्ष्यामि हितकाम्यया ।।
उत्पत्तिश्च तथा मोक्षा सफला च ततः परम् ।
पुत्रदा षट्तिला चैव जया च विजया तथा ॥
आमलकी तथा पश्चान्नाम्ना वै पापमोचनी ।
कामदा च ततः पश्चात्कथिता वै वरूथिनी ॥
मोहिनी चापरा प्रोक्ता निर्जला कथिता ततः ।
योगिनी देवशयनी कामिनी च ततः परम् ॥
पवित्रा चाप्यजा पद्मा इन्दिरा च ततः परम् ।
पाशाङ्कुशा रमा चैव ततः पश्चात्प्रबोधिनी ॥
सर्वसम्पत्प्रदा चैव द्वे प्रोक्ते मलमासजे ।
एवं षड्विंशतिं नाम्नामेकादश्याः पठेच्च यः ॥
संवत्सरद्वादशीनां फलमाप्नोति सोऽपि हि ।
टिप्पणियाँ