संदेश

पंचरत्न लेबल वाली पोस्ट दिखाई जा रही हैं

श्री दुर्गा पंचरत्नम

●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●  ❗❗ *आचार्य रुद्रेश्वरन* ❗❗ ●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●  दुर्गा स्तोत्रम ●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●  👉🏻 प्रिय पाठकों- श्री दुर्गा पञ्चरत्नं       ते ध्यानयोगानुगता अपश्यन् त्वामेव देवीं स्वगुणैर्निगूढाम् । त्वमेव शक्तिः परमेश्वरस्य मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ १ ॥ देवात्मशक्तिः श्रुतिवाक्यगीता महर्षिलोकस्य पुरः प्रसन्ना । गुहा परं व्योम सतः प्रतिष्ठा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ २ ॥ परास्य शक्तिः विविधैव श्रूयसे श्वेताश्ववाक्योदितदेवि दुर्गे । स्वाभाविकी ज्ञानबलक्रिया ते मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ३ ॥ देवात्मशब्देन शिवात्मभूता यत्कूर्मवायव्यवचोविवृत्या त्वं पाशविच्छेदकरी प्रसिद्धा मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ४ ॥ त्वं ब्रह्मपुच्छा विविधा मयूरी ब्रह्मप्रतिष्ठास्युपदिष्टगीता । ज्ञानस्वरूपात्मतयाखिलानां मां पाहि सर्वेश्वरि मोक्षदात्रि ॥ ५ ॥ इति परमपूज्य श्री चन्द्रशेखरेन्द्र सरस्वती स्वामि कृतं दुर्गा पञ्चरत्नं सम्पूर्णं । ------ ...