संदेश

भजन लेबल वाली पोस्ट दिखाई जा रही हैं

अष्टमूर्ति स्तोत्रं

●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●         ❗❗ *आचार्य रुद्रेश्वरन* ❗❗ ●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬● 👉🏻 प्रिय पाठकों-------  ॥ अष्टमूर्तिस्तोत्रम् ॥ श्रीगणेशाय नमः ॥ ईशा वास्यमिदं सर्वं चक्षोः सूर्यो अजायत । इति श्रुतिरुवाचातो महादेवः परावरः ॥ १॥ अष्टमूर्तेरसौ सूर्यौ मूर्तित्वं परिकल्पितः । नेत्रत्रिलोचनस्यैकमसौ सूर्यस्तदाश्रितः ॥ २॥ यस्य भासा सर्वमिदं विभातीदि श्रुतेरिमे । तमेव भान्तमीशानमनुभान्ति खगादयः ॥ ३॥ ईशानः सर्वविद्यानां भूतानां चेति च श्रुतेः । वेदादीनामप्यधीशः स ब्रह्मा कैर्न पूज्यते ॥ ४॥ यस्य संहारकाले तु न किञ्चिदवशिष्यते । सृष्टिकाले पुनः सर्वं स एकः सृजति प्रभुः ॥ ५॥ सूर्याचद्रमसौ धाता यथापूर्वमकल्पयत् । इति श्रुतेर्महादेवः श्रेष्ठोऽर्यः सकलाश्रितः ॥ ६॥ विश्वं भूतं भवद्भयं सर्वं रुद्रात्मकं श्रुतम् । मृत्युञ्जयस्तारकोऽतः स यज्ञस्य प्रसाधनः ॥ ७॥ विषमाक्षोऽपि समदृक् सशिवोऽपि शिवः स च । वृषसंस्थोऽध्यतिवृषो गुणात्माऽप्यगुगुणोऽमलः ॥ ८॥ यदाज्ञामुद्वहन्त्यत्र शिरसा सासुराः सुराः । अभ्रं वातो वर्षं इतीषवो यस्य स विश्वपाः ॥ ९॥ भिषक्रमं त्वा भिषजां शृणोमीति श्रुतेरवम् । स्वभक्तसंसारमह...