अष्टमूर्ति स्तोत्रं
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
❗❗ *आचार्य रुद्रेश्वरन* ❗❗
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
👉🏻 प्रिय पाठकों-------
॥ अष्टमूर्तिस्तोत्रम् ॥
श्रीगणेशाय नमः ॥
ईशा वास्यमिदं सर्वं चक्षोः सूर्यो अजायत ।
इति श्रुतिरुवाचातो महादेवः परावरः ॥ १॥
अष्टमूर्तेरसौ सूर्यौ मूर्तित्वं परिकल्पितः ।
नेत्रत्रिलोचनस्यैकमसौ सूर्यस्तदाश्रितः ॥ २॥
यस्य भासा सर्वमिदं विभातीदि श्रुतेरिमे ।
तमेव भान्तमीशानमनुभान्ति खगादयः ॥ ३॥
ईशानः सर्वविद्यानां भूतानां चेति च श्रुतेः ।
वेदादीनामप्यधीशः स ब्रह्मा कैर्न पूज्यते ॥ ४॥
यस्य संहारकाले तु न किञ्चिदवशिष्यते ।
सृष्टिकाले पुनः सर्वं स एकः सृजति प्रभुः ॥ ५॥
सूर्याचद्रमसौ धाता यथापूर्वमकल्पयत् ।
इति श्रुतेर्महादेवः श्रेष्ठोऽर्यः सकलाश्रितः ॥ ६॥
विश्वं भूतं भवद्भयं सर्वं रुद्रात्मकं श्रुतम् ।
मृत्युञ्जयस्तारकोऽतः स यज्ञस्य प्रसाधनः ॥ ७॥
विषमाक्षोऽपि समदृक् सशिवोऽपि शिवः स च ।
वृषसंस्थोऽध्यतिवृषो गुणात्माऽप्यगुगुणोऽमलः ॥ ८॥
यदाज्ञामुद्वहन्त्यत्र शिरसा सासुराः सुराः ।
अभ्रं वातो वर्षं इतीषवो यस्य स विश्वपाः ॥ ९॥
भिषक्रमं त्वा भिषजां शृणोमीति श्रुतेरवम् ।
स्वभक्तसंसारमहारोगहर्ताऽपि शङ्करः ॥ १०॥
इत्यष्टमूर्तिस्तोत्रं सम्पूर्णम् ।
सम्पूर्ण---🖌
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
आप हमारे अन्य प्रसारण माध्यम से जुड़ सकते है ,
📡 ब्लॉग
Aachary Rudreswaran
👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻 http://mangalamshiva.blogspot.com/?m=1
📡 टेलीग्राम
👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼👇🏼
https://t.me/AacharyRudreshwaran
📡 शिव सायुज्य
👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻
https://t.me/shivsayujy
📡 व्हाट्सअप
👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻👇🏻
आचार्य रुद्रेश्वरन-9956973754
आचार्य देव शुक्ल-7607121234
🔝🔝🔝🔝🔝🔝🔝🔝🔝
उपर के किसी भी एक नंबर पर YES शब्द लिख कर भेजें और आप अधिक से अधिक धार्मिक,आध्यात्मिक एवं सनातन धर्म उत्थान हेतु अधिक से अधिक विवारण प्राप्त कर सकते है।
धन्यवाद।
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
*🙆🏼♂‼जय श्री अवंतिकानाथ‼🙆🏼♂*
🔔‼‼‼‼‼🔔
🕉🙏🏻🕉
टिप्पणियाँ