शिव प्रदीक्षणा विधि
शिवालये प्रदक्षिण विधिः || व्रुषं चण्डं व्रुषंचैव सोमसूत्रं पुनर्व्रुषं | चण्डंच सोम सूत्रं च पुनश्चण्डं पुनर्व्रुषम् || शैवागम || नाक्षतैरर्चयेद्विष्णुं न तुलस्या गणाधिपं | न दूर्वाया यजॅद्दुर्गां बिल्वैर्नैव च भास्करम् || न केतक्या महेशानं कुटजेनापि नार्चयेत् | अपामार्गशमीदूर्वाः शिंशपा तुलसी तथा || भ्रंगराजं चामलकं खादिरं च हरिप्रियं | तुलसी पत्रविच्छेदः शालिग्रामे न चेष्यते | उन्मत्तमर्कपुष्पं च विष्णोर्वज्यं सदा बुधैः || धर्मं यो बाधते धर्मोनस धर्मः कदाचन | अविरोधीतु योधर्मः सधर्मः सद्बिरुच्यते || Real vaishnava's उपक्रुति कुशला जगत्यजस्रं परकुशलानि निजानि मन्यमानाः | अपिपर परिभावने दयार्द्राः शिव मनसः खलु वैष्णवा ||