महालिंग स्तुति
॥ श्रीमहालिङ्गस्तुतिः ॥ अनादिमलसंसार रोगवैद्याय शम्भवे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १॥ आदिमध्यान्तहीनाय स्वभावानलदीप्तये । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ २॥ प्रलयार्णवसंस्थाय प्रलयोत्पत्तिहेतवे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ३॥ ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ४॥ महादेवाय महते ज्योतिषेऽनन्ततेजसे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ५॥ प्रधानपुरुषेशाय व्योमरूपाय वेधसे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ६॥ निर्विकाराय नित्याय सत्यायामलतेजसे । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ७॥ वेदान्तसाररूपाय कालरूपाय धीमते । नमश्शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ ८॥ इति श्रीकूर्मपुराणान्तर्गतं श्रीमहालिङ्गस्तुतिः समाप्ता ।