समस्त पाप निवारण स्तोत्र
* समस्तपाप निवारण स्तोत्र * पुष्करोवाच विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः । नमामि विष्णुं चित स्थमहंकारगतिं हरिम् ॥ चित्तस्थमीशमव्यक्तमनन्तमपराजितम् । विष्णुमीडयमशेषेण अनादिनिधनं विभुम् ।। विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् । यच्चाहंकारगो विष्णुर्यव्दिष्णुमॅयि संस्थितः ॥ करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च । तत् पापं नाशमायातु तस्मिन्नेव हि चिन्तिते ॥ ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् । तमुपेन्द्रमहं विष्णुं प्राणतातिॅहरं हरिम् ॥ जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः । हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥ सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज । हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥ नृसिंहानन्त गोविंद भूतभावन केशव । दुरुक्तं दुष्कृतं ध्यातं शमयाधं नमोऽस्तु ते ॥ यन्मया चिन्तितं दु...