समस्त पाप निवारण स्तोत्र

*समस्तपाप निवारण स्तोत्र*
पुष्करोवाच

विष्णवे विष्णवे नित्यं विष्णवे विष्णवे नमः ।

नमामि विष्णुं चित स्थमहंकारगतिं हरिम् ॥

चित्तस्थमीशमव्यक्तमनन्तमपराजितम् ।

विष्णुमीडयमशेषेण अनादिनिधनं विभुम् ।।

विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ।

यच्चाहंकारगो विष्णुर्यव्दिष्णुमॅयि संस्थितः ॥

करोति कर्मभूतोऽसौ स्थावरस्य चरस्य च ।

तत् पापं नाशमायातु तस्मिन्नेव हि चिन्तिते ॥

ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।

तमुपेन्द्रमहं विष्णुं प्राणतातिॅहरं हरिम् ॥

जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।

हस्तावलम्बनं विष्णुं प्रणमामि परात्परम् ॥

सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।

हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥

नृसिंहानन्त गोविंद भूतभावन केशव ।

दुरुक्तं दुष्कृतं ध्यातं शमयाधं नमोऽस्तु ते ॥

यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।

अकार्यँ महदत्युग्रं तच्छ्मं नय केशव ॥

ब्रह्मण्यदेव गोविंद परमार्थपरायण ।

जगन्नाथ जगध्दतः पापं प्रश्मयाच्युत ॥

यथापरह्मे सायाह्मे मध्याह्मे च तथा निशि ।

कायेन मनसा वाचा कृतं पापमजानता ॥

जानता च हृषीकेश पुण्डरीकाक्ष माधव ।

नामत्रयोच्चारणतः पापं यातु मम क्षयम् ॥

शरीरं में हृषीकेश पुण्डरीकाक्ष माधव ।

पापं प्रशमयाध त्वं वाक्कृतं मम माधव ॥

यद् भुंजन यत् स्वपंस्तिष्ठन् गच्छन् जाग्रद यदास्थितः ।
कृतवान् पापमधाहं कायेन मनसा गिरा ॥

यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकावहम् ।

तद् यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥

परं ब्रहम परं धाम पवित्रं परमं च यत् ।

तस्मिन् प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु ॥

यत् प्राप्य न निवतॅन्ते गन्धस्पशाॅदिवजिॅतम् ।

सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वधम् ॥

( अग्नि पुराण : १७२.)

माहात्म्यं :-
पापप्रणाशनं स्त्रोत्रं यः पठेच्छृणुयादपि ।

शारीरैमॉनसैवॉग्जैः कृतैः पापैः प्रमुच्यते ॥

सर्वपापग्रहादिभ्यो याति विष्णोः परं पदम् ।

तस्मात् पापे कृते जप्यं स्त्रोत्रं सवॉधमदॅनम्॥

प्रायश्चित्तमधौधानां स्त्रोत्रं व्रतकृते वरम् ।

प्रायश्चित्तैः स्त्रोत्रजपैर्व्रतैनॅश्यति पातकम् ॥

( अग्नि पुराण : १७२.१९ -२१ 

टिप्पणियाँ