पारा पूजा
*परा पूजा* (पाठभेद सहित) अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि । स्थितेऽद्वितीयभावेऽस्मिन् कथं पूजा विधीयते ॥ १॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्घ्यं तु शुद्धस्याचमनं कुतः ॥ २॥ निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च । निरालम्बस्योपवीतं पुष्पं निर्वासनस्य च ॥ ३॥ रम्यस्याभरणं कुतः निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । । निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ ४॥ निर्गन्धस्य कुतो धूपं स्वप्रकाशस्य दीपकम् । नित्यतृप्तस्य नैवेद्यस्ताम्बूलं च कुतो विभोः ॥ ४॥ निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥ नित्यतृप्तस्य नैवेद्यं निष्कामस्य फलं कुतः । ताम्बूलं च विभोः कुत्र नित्यानन्दस्य दक्षिणा ॥ ५॥ विश्वानन्दयितुस्तस्य किं तांबूलं प्रकल्पते। स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६॥ स्वयं प्रकाशमानस्य कुतो नीराजनविधिः । प्रदक्षिणा ह्यनन्तस्य चाद्वितीयस्य का नतिः ॥ ६॥ गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । प्रदक्षिणमनन्त्स्य प्रमाणोऽद्वयवस्तुनः ॥ ७॥ प्रदक्षिणा ह्यनन्तस्य ह्यद्वयस्य कुतो न...