पारा पूजा

*परा पूजा*
(पाठभेद सहित)

अखण्डे सच्चिदानन्दे निर्विकल्पैकरूपिणि ।
स्थितेऽद्वितीयभावेऽस्मिन् कथं पूजा विधीयते ॥ १॥

पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् ।
स्वच्छस्य पाद्यमर्घ्यं तु शुद्धस्याचमनं कुतः ॥ २॥

निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च ।
निरालम्बस्योपवीतं पुष्पं निर्वासनस्य च ॥ ३॥  
  रम्यस्याभरणं कुतः
निर्लेपस्य कुतो गन्धः पुष्पं निर्वासनस्य च । ।
निर्विशेषस्य का भूषा कोऽलङ्कारो निराकृतेः ॥ ४॥

निर्गन्धस्य कुतो धूपं स्वप्रकाशस्य दीपकम् ।
नित्यतृप्तस्य नैवेद्यस्ताम्बूलं च कुतो विभोः ॥ ४॥

निरञ्जनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः ।
निजानन्दैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ ५॥

नित्यतृप्तस्य नैवेद्यं निष्कामस्य फलं कुतः ।
ताम्बूलं च विभोः कुत्र नित्यानन्दस्य दक्षिणा ॥ ५॥

विश्वानन्दयितुस्तस्य किं तांबूलं प्रकल्पते।
स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ ६॥

स्वयं प्रकाशमानस्य कुतो नीराजनविधिः ।
प्रदक्षिणा ह्यनन्तस्य चाद्वितीयस्य का नतिः ॥ ६॥

गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः ।
प्रदक्षिणमनन्त्स्य प्रमाणोऽद्वयवस्तुनः ॥ ७॥

प्रदक्षिणा ह्यनन्तस्य ह्यद्वयस्य कुतो नतिः ।
वेदवाक्यैरवेद्यस्य कुतः स्तोत्रं विधीयते ॥ ७॥


स्वयंप्रकाशमानस्य कुतो नीराजनं विधिः ।
इयमेव परा पूजा शम्भोः सत्यस्वरूपिणः ॥ ७॥

स्वयंप्रकाशमानस्य कुतो नीराजनं विभोः ।
अन्तर्बहिः संस्थितस्योद्वासनविधिः कुतः ॥ ८॥

 अन्तर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत् ॥ ८॥


देवो देवालयप्रोक्तो जीवो देवः सदाशिवः ।
त्यजेदज्ञाननिर्माल्यं सोहंभावेन पूजयेत् ॥ ८॥

एवमेव परा पूजा सर्वावस्थासु सर्वदा ।
एकबुद्ध्या तु देवेश विधेया ब्रह्मवित्तमैः ॥ ९॥


तुभ्यमहमनन्ताय मह्यं तुभ्यं शिवात्मने ।
नमो देवाधिदेवाय पराय परमात्मने ॥ ९॥


योगी देहाभिमानी स्याद्रोगी कर्मणि तत्परः ।
ज्ञानी मोक्षाभिमान्येव तत्त्वज्ञेनाभिमानिता ॥ १०॥


किं करोमि क्व गच्छामि किं गृह्णामि त्यजामि किम् ।
आत्मना पूरितं सर्वं महाकल्पाम्बुना सदा ॥ ११॥

॥ इति परा पूजा समाप्ता ॥

टिप्पणियाँ