वैष्णव पवित्र चिन्ह

तप्त-शंख-चक्र से मनुष्य मोक्ष का अधिकारी
----------------------------------------------------
 
'अश्नुते शृतास'
-----------------
 
पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वत: ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ।।

      –ऋग्वेद, मण्डल 9, सूक्त 83,1 

सायणभाष्यम्
-----------------

'पवित्रं ते ' इति पञ्चर्चं षोडशं सूक्तमाङ्गिरसस्य पवित्रस्यार्षं जागतं पवमानसोमदेवताकम् । तथा चानु शंख-क्रान्तं- 'पवित्रं ते पवित्रः' इति । अभिष्टव आद्ये ऋचौ वक्तव्ये । सूत्रितं च पवित्रं ते विततं ब्रह्मणस्पत इति द्वे वि यत्पवित्रं धिषणा अतन्वत ' ( आश्व. श्रौ. 4,6) इति ॥

प॒वित्रं॑ ते॒ वित॑तं ब्रह्मणस्पते प्र॒भुर्गात्रा॑णि॒ पर्ये॑षि वि॒श्वतः॑ ।
अत॑प्ततनू॒र्न तदा॒मो अ॑श्नुते शृ॒तास॒ इद्वहं॑त॒स्तत्समा॑शत ॥१

पदार्थान्वयः
--------------

प॒वित्र॑म् । ते॒ । विऽत॑तम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । प्र॒ऽभुः । गात्रा॑णि । परि॑ । ए॒षि॒ । वि॒श्वतः॑ ।
अत॑प्तऽतनूः । न । तत् । आ॒मः । अ॒श्नु॒ते॒ । शृ॒तासः॑ । इत् । वह॑न्तः । तत् । सम् । आ॒श॒त॒ ॥१

पवित्रम् । ते । विऽततम् । ब्रह्मणः । पते । प्रऽभुः । गात्राणि । परि । एषि । विश्वतः ।

अतप्तऽतनूः । न । तत् । आमः । अश्नुते । शृतासः । इत् । वहन्तः । तत् । सम् । आशत ॥१

हे ब्रह्मणस्पते मन्त्रस्य स्वामिन् सोम !ते 'पवित्रं शोधकमङ्गं' विततं सर्वत्र विस्तृतम् । स प्रभुः प्रभविता त्वं गात्राणि पातुरङ्गानि पर्येषि परिगच्छसि विश्वतः सर्वतः। तव 'तत् पवित्रम् 'अतप्ततनूः पयोव्रतादिना असंतप्तगात्रः आमः अपरिपक्वो न अश्नुते न व्याप्नोति । 'शृतास' इत् शृता एवं परिपक्वा एव वहन्तः यागं निर्वहन्तः तत् पवित्रं 'समाशत' व्याप्नुवन्ति ।

हिन्दी भावार्थ
-----------------

(ब्रह्मणस्पते) हे आत्मा के अधिपति भगवान् श्रीमन्नारायण ! (पवित्रं ते विततम्) तुझे पवित्र करनेवाली छाननी तेरे लिये तनी हुई है; (प्रभु:) प्राणी श्रीवैष्णव के अंदर प्रकट होकर तू (विश्वत: गात्राणि पर्येषि) उसके सब अंगों में पूर्णत: व्याप्त हो जाता है । (आम:) जो अपरिपक्व है, और (अतप्ततनू:) जिसका शरीर अग्नि(शंख-चक्र) के ताप में पकड़कर तप्त नहीं हुआ है वह (तद् न अश्नुते) उस आनंद का आस्वादन नहीं कर पाता; (शृतास: इत्) केवल वे ही जो शंख-चक्र के द्वारा तप्त हो कर तैयार हो गये हैं (तद् वहन्त:) उसे धारण करने में समर्थ होते हैं, और (तत् समाशत) वे ही उसका आस्वाद ले पाते हैं ।

          

टिप्पणियाँ