शिव ध्यान मंत्र
ध्यानं
आपाताल-नभःस्थलान्त-भुवन-ब्रह्माण्ड-माविस्फुरत्- ज्यॊतिः स्फाटिक-लिङ्ग-मौलि-विलसत्-पूर्णॆन्दु-वान्तामृतैः । अस्तॊकाप्लुत-मॆक-मीश-मनिशं रुद्रानु-वाकाञ्जपन् ध्यायॆ-दीप्सित-सिद्धयॆ ध्रुवपदं विप्रॊஉभिषिञ्चॆ-च्चिवम् ॥ ब्रह्माण्ड व्याप्तदॆहा भसित हिमरुचा भासमाना भुजङ्गैः कण्ठॆ कालाः कपर्दाः कलित-शशिकला-श्चण्ड कॊदण्ड हस्ताः । त्र्यक्षा रुद्राक्षमालाः प्रकटितविभवाः शाम्भवा मूर्तिभॆदाः रुद्राः श्रीरुद्रसूक्त-प्रकटितविभवा नः प्रयच्चन्तु सौख्यम् ॥
ॐ ग॒णाना॓म् त्वा ग॒णप॑तिग्ं हवामहॆ क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । ज्यॆ॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पद॒ आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥ महागणपतयॆ॒ नमः ॥ शं च॑ मॆ॒ मय॑श्च मॆ प्रि॒यं च॑ मॆஉनुका॒मश्च॑ मॆ॒ काम॑श्च मॆ सौमनस॒श्च॑ मॆ भ॒द्रं च॑ मॆ॒ श्रॆय॑श्च मॆ॒ वस्य॑श्च मॆ॒ यश॑श्च मॆ॒ भग॑श्च मॆ॒ द्रवि॑णं च मॆ य॒न्ता च॑ मॆ ध॒र्ता च॑ मॆ॒ क्षॆम॑श्च मॆ॒ धृति॑श्च मॆ॒ विश्वं॑ च मॆ॒ मह॑श्च मॆ स॒ंविच्च॑ मॆ॒ ज्ञात्रं॑ च मॆ॒ सूश्च॑ मॆ प्र॒सूश्च॑ मॆ॒ सीरं॑ च मॆ ल॒यश्च॑ म ऋ॒तं च॑ मॆ॒உमृतं॑ च मॆஉय॒क्ष्मं च॒ मॆஉना॑मयच्च मॆ जी॒वातु॑श्च मॆ दीर्घायु॒त्वं च॑ मॆஉनमि॒त्रं च॒ मॆஉभ॑यं च मॆ सु॒गं च॑ मॆ॒ शय॑नं च मॆ सू॒षा च॑ मॆ॒ सु॒दिनं॑ च मॆ ॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥
टिप्पणियाँ