स्वभाव श्लोक

  स्वभावः
===
सुभावश्च स्वभावो वा जनानां हि निधिर्महान्।
संस्कारैश्च  सुभावो वै स्वभावो जन्मना हि वै।।

 कारणरहितश्चैव प्रकृत्या जीवने तथा।
स्वभावतस्तथा चैव  प्रवृत्तिर्जीवने यथा।।

स्वभावश्च यथा चैव मनुष्याणां हि जीवने।
वस्तूनां हि तथा चैव  सर्वत्रैव च सर्वदा।।

अग्नेर्ननूष्णता चैव स्वच्छञ्च शीतलं जलम्।
निश्चितो$स्ति प्रवाहश्च वायोर्हि दुष्करस्तथा।।

आचारैः पितृभिश्चैव  नियमैः सर्वदा तथा।
सुबुद्ध्या शिक्षया चैव सुभावैः संस्कृता जना:।।

श्वानपुच्छं समं नैव स्वामिभक्तिश्च दुर्लभा। 
वक्रदृष्टिर्हि कामिन्या: स्वाभाविकी च सर्वथा।।

सर्वेभ्यश्च समा चैव सुरभिश्चन्दनस्य हि ।
छायया परितुष्यन्ति  सर्वान् वृक्षास्तु सर्वदा।।

क्रोधेन वक्ति केचिद्धि शान्त्या वक्ति तथापरः।
विवशाश्च स्वभावेन स्वभावो दुरतिक्रमः।।

स्वाभाविकी गतिर्निम्ना मनसः सर्वथा सदा।
कामिनीनाञ्च लज्जा तु लज्जाहीना नरा हि वै।।

टिप्पणियाँ