॥ अथ शरभेशाष्टक स्तोत्रम् ॥
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
❗❗ *आचार्य रुद्रेश्वरन* ❗❗
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
👉🏻 प्रिय पाठकों-------
॥ अथ शरभेशाष्टक स्तोत्रम् ॥
कुण्डलिनी शक्ति का ध्यान करते हुये स्तोत्र का 3 बार पाठ करे ।
तडित्कोटि प्रतीकाशां विषतन्तु तनीयसीं । इति कुण्डलिनी ध्यात्वा ॥
विनियोगः – अस्य श्री शरभेष्टाक मंत्रस्य कालाग्निरुद्र ऋषिः, जगती छंदः, भगवान श्री शरभेश्वरो देवता, खं बीजं, स्वाहा शक्तिः, चतुर्विध पुरुषार्थ सिद्धयर्थे जपे विनियोगः ।
ऋष्यादिन्यासः – कालाग्निरुद्राय ऋषये नमः शिरसि । जगती छन्दसे नमः मुखे । भगवते श्री शरभेश्वराय देवातयै नमः हृदये । खं बीजाय नमः गुह्ये । स्वाहा शक्तये नमः पादयोः । विनियोगाय नमः सर्वाङ्गे ।
मूलमंत्र से षङ्गन्यास करे एवं ध्यान करें ।
॥ ध्यानम् ॥
ज्वलन कुटिलकेशं सूर्यचन्द्राग्नि नेत्रम्,
निशित कर नरखागैधूर्म होमादि देहम् ।
शरभमथ मुनीन्द्रैः स्तूयमानं सिताङ्गम्
प्रणतभय-विनाशं भावये पक्षिराजम् ॥
॥ स्तोत्रम् ॥
ॐ देवाधिदेवाय जगन्मयाय शिवायनालिक निभाननाय ।
शर्वाय भीमाय (भीमय) शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ १ ॥
हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय ।
मृडाय रुद्राय त्रिलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ २ ॥
शीताँशुचूडाय दिगम्बराय सृष्टि-स्थिती-ध्वंसन-कारणाय ।
जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 3 ॥
कङ्लककण्ठाय भवान्तकाय कपालशूलात्ढ्य कराम्बुजाय ।
भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 4 ॥
शमादि षट्काय यमान्तकाय यमादि योगाष्टक सिद्धिदाय ।
उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 5 ॥
घृणादि पाशाष्टक वर्जिताय लेखि कृतास्मिन् पथिपुङ्गवाय ।
गुणादिहिनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 6 ॥
कलादि वेदामृत कन्दलाय कल्याण कौतुहल कारणाय ।
स्थूलाय सूक्ष्माय सूरुपकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ 7 ॥
पञ्चाननायखिलभासनाय पञ्चाशदर्णाय पराक्षराय ।
पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ८ ॥
नीलकण्ठाय रुद्राय शिवाय शशिमौलिने ।
भवाय भवनाशाय पक्षिराजाय ते नमः ॥ ९ ॥
परात्पराय घोराय शम्भवे परमात्मने ।
शर्वाय निर्मलाङ्गाय सालुवाय नमो नमः ॥ १० ॥
गंगाधराय साम्बाय परमानन्द तेजसे ।
सर्वेश्वराय शान्ताय शरभाय नमो नमः ॥ ११ ॥
वरदाय वरांगाय (च गङगाय) वामदेवाय शूलिने ।
गिरीशाय गिरीशाय गिरिजापतये नमः ॥ १२ ॥
कनक जठरकोद्यद्रक्त पानोन्मेदन प्रथित
निखिल पीड़ा नारसिंहेन जाता ।
शरभ हर शिवेश त्राहि नः सर्वपापा
दनिशमिह कृपालो शालुवेश प्रभोत्वम् ॥ १३ ॥
शरभेश शर्वाधिक शान्तमूर्ते कृतापराधान मरानपायान् ।
विनीत विश्व द्विविधायतेन नमोऽस्तु तुभ्यं शरभेश्वराय ॥ १४ ॥
दंष्ट्राननोग्रः शरभः सपक्षश्चतुर्भुजश्चाष्ट-भुजश्चर्तुर्विधः ।
कोटीर गङ्गेन्दुधरो नृसिंहक्षोभाय ह्यास्मद्रिपुहास्तु शम्भुः ॥ १५ ॥
हुंकारी शरभेश्वरोष्टचरणः पक्षीचतुर्बाहुकः
पादाकृष्ट निंसह विग्रहधर कालाग्नि कोटिद्युतिः ।
विश्वक्षोभहरः सहेतिरनिशं ब्रह्मेन्द्र मुख्यैस्तुतो
गङ्गाचन्द्रधरः पुरत्रय हर सद्यो रिपुघ्नोस्तुमः ॥ १६ ॥
मृगङ्गलाङ्गल सुचञ्चुपक्षो दंष्ट्राभिरष्टांघ्रि भुजा सहस्रः ।
त्रिनेत्र गङ्गेन्दुधरः प्रभाढ्य पायाद पायाच्छरभेश्वरो नः ॥ १७ ॥
नृसिंहमृत्युग्रमदिव्यतेजः प्रकाशिनं दानवभङ्गदक्षम् ।
प्रशान्तमन्तंविदधाति योऽमेसोऽव्यादपायाच्छरभेश्वरोन ॥ १८ ॥
योऽभूत् सहस्रांशु शतप्रकाशः सपक्ष सिंहाकृतिरष्टपादाः ।
नृसिंह संक्षोभशमात्तरूपः पायादपायाच्छरभेश्वरो नः ॥ १९ ॥
त्वां मन्युमन्तं प्रवदन्ति वेदाः त्वां शांतिमन्तम् मुनयो
गृणन्ति दृष्टेनृसिंहे जगदीश्वरेते सर्वापराधंशरभः क्षमस्व ॥ २० ॥
करचरणकृतं वा कायजं कर्मजं वा
श्रवण नयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व,
शिव शिव करुणाब्धे श्रीमहादेव शम्भो ॥ २१ ॥
रुद्रः शङ्कर ईश्वरः पुरहरः स्थाणुः कपर्दी शिवो वागीशो
वृषभध्वज स्मरहरी भक्ति प्रियस्त्र्यम्बकः ।
भूतेशो जगदीशश्वरश्च शरभो मृत्युंजय श्रीपतिरस्मान्काल
गलोऽवतात् पशुपतिः शंभुः पिनाकीः हरः ॥ २२ ॥
योऽ स्मान्पाहि भगवन्त प्रसीद च पुनः पुनः ।
इति स्तुतो महादेवः प्रसन्नो भक्तवत्सलः ॥ २३ ॥
यतो नृसिंह हरसे हर इत्युच्यसे बुधैः ।
यतो विभर्ति सकलं विभज्यतनुमष्टधा ॥ २४ ॥
सुरात्राह्लाद्रयामास वरदानै-रभीप्सितैः ।
प्रसन्नोऽस्मि स्तवेनाहमनेन विबुधेश्वराः ॥ २५ ॥
मयिरुद्रे महादेवे भजध्वं भक्ति पूरिताः ।
ममांशोऽयं नृसिंहोऽपि मयि भक्ततमोऽस्त्विह ॥ २६ ॥
इयं स्तवं पठेद्यस्तु शरभेष्टाकं नरः ।
तस्य नश्यन्ति पापानि रिपश्चसुरोत्तमाः ॥ २७ ॥
नश्यन्ति सर्वरोगाणि क्षयरोगादिकानि च ।
अशेष ग्रह भूतानि कृत्रिमाणि च ज्वराणि च ॥ २८ ॥
सर्व चौरादि शार्दूल गजपोत्रिमखाणि च ।
अन्यानि व वनस्थानि नास्ति भीतिर्न संशयः ॥ २९ ॥
इक्त्युक्तवान्तर्दधे देवा देवान्सर्व शालुवः ।
ततस्ते स्वस्वधामानि गताश्चाह्लाद पूर्वकम् ॥ ३० ॥
एतच्छारभं स्तोत्रं मंत्रंभूतं जपेन्नरः ।
सर्वान्कामान वाप्नोति शिवलोकञ्च गच्छति ॥ ३१ ॥
॥ इति शरभार्चन पद्धति प्रयोगान्तरे शरभाष्टक स्तोत्रं ॥ सम्पूर्ण---🖌
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
📳📳📳📳
*9956973754/7607121234*
अत्यधिक पोस्ट के लिए हमारे ब्लॉग को भी देख सकते है-
```Aachary Rudreshwaran```
आचार्य रुद्रेश्वरण समूह से जुड़ने के लिए
ऊपर के नंबरों पर *YES* भेजें।
धन्यवाद।
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
*🙆🏼♂‼जय श्री अवंतिकानाथ‼🙆🏼♂*
🔔‼‼‼‼‼🔔
🕉🙏🏻🕉
टिप्पणियाँ