*|| श्रीदत्तात्रेयस्तोत्रं ॥*

*|| श्रीदत्तात्रेयस्तोत्रं ॥*

   ॥ ॐ ॥

दत्तात्रेयं प्रियदैवतं सर्वात्मकं विश्वंभरम् ।
करुणार्णवं विपदाहरं चिन्मयं प्रणमाम्यहम् ॥ १॥

बालरूपं हास्यवदनं शंखचक्रयुतं प्रभुम् ।
धेनुसहितं त्रिशुलपाणिं चिन्मयं प्रणमाम्यहम् ॥ २॥

षड्भुजं स्तवनप्रियं त्रिगुणात्मकं भवतारकम् ।
शिवकारकं सुरवंदितं चिन्मयं प्रणमाम्यहम् ॥ ३ ॥

प्रणवगायनतोषितं प्रणवपद्मैः पूजितम् ।
प्रणवात्मकं परमेश्वरं चिन्मयं प्रणमाम्यहम् ॥ ४॥

कोटिभास्करसदृशं तेजस्विनं तेजोमयम् ।
सद्गुरूं गुरूणां गुरूं चिन्मयं प्रणमाम्यहम्  ॥ ५॥

विश्वनाटकचालकं ज्ञानगम्यं निर्गुणम् ।
भक्तकारणसंभूतं चिन्मयं प्रणमाम्यहम् ॥ ६॥

बालयोगिध्यानमग्नं त्रिविधतापनिवारकम् ।
दीननाथं सिद्धिदं चिन्मयं प्रणमाम्यहम् ॥ ७॥

जनकजननीबंधुसुहृदाः आप्तसर्वास्त्वं मम ।
एहि एहि स्मर्तृगामिन् चिन्मय प्रकटी भव ॥ ८॥

*ग्रहदृष्टी सूर्यसिध्दांतीय पंचांग नागपूर*.                 *जोतिष रत्न पंचांगभूषण पं देवव्रत बूट*

टिप्पणियाँ