देव्यष्टकम

महादेवीं महाशक्तिं भवानीं भववल्लभाम्।
भवार्तिभञ्जनकरीं वन्दे त्वां लोकमातरम् ॥१॥

भक्तिप्रियां भक्तिगम्यां भक्तानां कीर्तिवधिकाम् ।
भवप्रियां सतीं देवीं वन्दे त्वां भक्तवत्सलाम् ॥२॥

अन्नपूर्णा सदापूर्णा पार्वतीं पर्वपूजिताम् ।
महेश्वरीं वृषारुढां वन्दे त्वां परमेश्वरीम् ॥३॥

कालरात्रिं महारात्रिं मोहरात्रिं जनेश्वरीम् ।
शिवकान्तां शम्भुशक्तिं वन्दे त्वां जननीमुमाम् ॥४॥

जगत्कत्रीं जगद्धात्रीं जगत्संहारकारिणीम् ।
मुनिभि: संस्तुतां भद्रां वन्दे त्वां मोक्षदायिनीम् ॥५॥

देवदु:खहरामम्बां सदा देवसहायकाम् ।
मुनिदेवै: सदा सेव्यां वन्दे त्वां देवपूजिताम् ॥६॥

त्रिनेत्रां शंकरीं गौरीं भगमोक्षप्रदां शिवाम् ।
महामायां जगद्वजां वन्दे त्वां जगदीश्वरीम् ॥७॥

शरणागतजीवानां सर्वदु:खविनाशिनीम् ।
सुखसम्पत्करीं नित्यां वन्दे त्वां प्रकृतिं पराम् ॥८॥

देव्यष्टकमिदं पुण्यं योगानन्देन निर्मितम् ।
य: पठेद्भक्तिभावेन लभते स परं सुखम् ॥९॥

टिप्पणियाँ