ध्यान में भवानी
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
❗❗ *आचार्य रुद्रेश्वरन* ❗❗
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
👉🏻 प्रिय पाठकों-------
श्री दुर्गादेवी ध्यानम् ||
ओम जटाजूटसमायुक्तामर्द्धेन्दुकृतशेखराम् ।
लोचनत्रयसंयुक्तां पूर्णेन्दुसदृशाननाम् ॥ १ ॥
अतसीपुष्पवर्णाभां सुप्रतिष्ठां सुलोचनाम् ।
नवयौवनसंपन्नां सर्वाभरणभूषिताम् ॥ २ ॥
सुचारुदशनां तद्वत्पीनोन्नतपयोधराम् ।
त्रिभङ्गस्थानसंस्थानां महिषासुरमर्दिनीम् ॥ ३ ॥
मृणालायतसंस्पर्शदशबाहुसमन्विताम् ।
त्रिशूलं दक्षिणे ध्येयं खड्गं चक्रं क्रमादधः ॥ ४ ॥
तीक्ष्णबाणं तथा शक्तिं दक्षिणेन विचिन्तयेत् ।
खेटकं पूर्णचापं च पाशमङ्कुशमेव च ॥ ५ ॥
घण्टां वा परशुं वापि वामतः सन्निवेशयेत् ।
अधस्तान्महिषं तद्वद्विशिरस्कं प्रदर्शयेत् ॥ ६ ॥
शिरच्छेदोद्भवं तद्वद्दानवं खड्गपाणिनम् ।
हृदि शूलेन निर्भिन्नं निर्यदान्त्रविभूषितम् ॥ ७ ॥
रक्तारक्तीकृताङ्गञ्च रक्तविस्फुरितेक्षणम् ।
वेष्टितं नागपाशेन भ्रुकुटीभीषणाननम् ॥ ८ ॥
सपाशवामहस्तेन धृतकेशञ्च दुर्गया ।
वमद्रुधिरवक्त्रं च देव्याः सिंहं प्रदर्शयेत् ॥ ९ ॥
देव्यास्तु दक्षिणं पादं समं सिंहोपरिस्थितम् ।
किञ्चिदूर्ध्वं तथा वाममङ्गुष्ठं महिषोपरि ॥ १० ॥
प्रसन्नवदनां देवीं सर्वकामफलप्रदाम् ।
शत्रुक्षयकरीं देवीं दैत्यदानवदर्पहाम्] ॥ ११ ॥
स्तूयमानञ्च तद्रूपममरैः सन्निवेशयेत् ॥ १२ ॥
उग्रचण्डा प्रचण्डा च चण्डोग्रा चण्डनायिका ।
चण्डा चण्डवती चैव चण्डरूपातिचण्डिका ॥ १३ ॥
आभिः शक्तिभिरष्टाभिः सततं परिवेष्टिताम् ।
चिन्तयेज्जगतां धात्रीं धर्मकामार्थमोक्षदाम् ॥ १४ ॥
सम्पूर्ण---🖌
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
📳📳📳📳
*9956973754/7607121234*
अत्यधिक पोस्ट के लिए हमारे ब्लॉग को भी देख सकते है-
```Aachary Rudreshwaran```
आचार्य रुद्रेश्वरण समूह से जुड़ने के लिए
ऊपर के नंबरों पर *YES* भेजें।
धन्यवाद।
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
*🙆🏼♂‼जय श्री अवंतिकानाथ‼🙆🏼♂*
🔔‼‼‼‼‼🔔
🕉🙏🏻🕉
टिप्पणियाँ