पञ्चआयुध स्त्रोतम
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
❗❗ *आचार्य रुद्रेश्वरन* ❗❗
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
पञ्चायुध स्तोत्रम्
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
👉🏻 प्रिय पाठकों-------
स्फुरत्सहस्रारशिखातितीव्रं सुदर्शनं भास्कर कोटितुल्यं
सुरद्विषां प्राणविनाशि विष्णोः चक्रं सदाऽहं शरणं प्रपद्ये ॥ १ ॥
विष्णोर्मुखोत्थानिल पूरितस्य यस्य ध्वनिर्दानवदर्पहन्ता
तं पाञ्चजन्यं शशिकोटिशुभ्रं शङ्खं सदाऽहं शरणं प्रपद्ये ॥ २ ॥
हिरण्मयीं मेरुसमानसारां क्ॐओदकीं दैत्यकुलैक हन्त्रीं
वैकुण्ठवामाग्रकराभिमृष्टां गदां सदाऽहं शरणं प्रपद्ये ॥ ३ ॥
रक्षोऽसुराणां कठिनोग्रकण्ठच्छेदक्षरत्क्षोणितदिग्धदारम्
तं नन्दकं नाम हरेः प्रदीप्तं खड्गं सदाऽहं शरणं प्रपद्ये ॥ ४ ॥
यज्ज्यानिनादश्रवणात्सुराणां चेतांसि निर्मुक्तभयानि सद्यः
भवन्ति दैत्याशनिबाणवर्षैः शार्ङ्गं सदाऽहं शरणं प्रपद्ये ॥ ५ ॥
इमं हरेः पञ्चमहायुधानां स्तवं पठेद्योऽनुदिनं प्रभाते
समस्त दुःखानि भयानि सद्यः पापानि नश्यन्ति सुखानि सन्ति ॥ ६ ॥
वने रणे शत्रु जलाग्निमध्ये यदृच्छयापत्सु महाभयेषु
इदं पठन् स्तोत्रमनाकुलात्मा सुखीभवेत् तत्कृत सर्वरक्षः ॥ ७ ॥
यच्चक्रशङ्खं गदखड्गशार्ङ्गिणं पीताम्बरं कौस्तुभवत्सलाञ्छितं
श्रियासमेतोज्ज्वलशोभिताङ्गं विष्णुं सदाऽहं शरणं प्रपद्ये ॥ ८ ॥
जले रक्षतु वाराहः स्थले रक्षतु वामनः
अटव्यां नारसिंहश्क्ष्च सर्वतः पातु केशवः ॥ ९ ॥
इति पञ्चायुध स्तोत्रम् ॥
सम्पूर्ण---🖌
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
📳📳📳📳
*9956973754/7607121234*
अत्यधिक पोस्ट के लिए हमारे ब्लॉग को भी देख सकते है-
```Aachary Rudreshwaran```
आचार्य रुद्रेश्वरण समूह से जुड़ने के लिए
ऊपर के नंबरों पर *YES* भेजें।
धन्यवाद।
●▬▬▬▬▬ஜ۩۞۩ஜ▬▬▬▬▬●
*🙆🏼♂‼जय श्री अवंतिकानाथ‼🙆🏼♂*
🔔‼‼‼‼‼🔔
🕉🙏🏻🕉
टिप्पणियाँ