।।श्रीमते निगमान्तवेदान्तदेशिकाय नमः।।


।।श्रीमते निगमान्तवेदान्तदेशिकाय नमः।।

प्रतिष्ठां सर्वचित्राणां प्रपद्ये मणिपादुकाम् । विचित्रजगदाधारो विष्णुर्यत्र प्रतिष्ठितः ॥1।।

–पादुकासहस्रं, श्रीवेदान्तदेशिक-चित्रपद्धति:

पदविभाग:
--------------

प्रतिष्ठाम्, सर्वचित्राणाम्, प्रपद्ये, मणि-पादुकाम्, विचित्र-जगद्-आधारः, विष्णुः, यत्र, प्रतिष्ठितः ।

प्रतिपदार्थः
-------------

सर्वचित्राणाम् – सकलानां चित्राणाम्,
प्रतिष्ठाम् – विषयभूताम्,
मणिपादुकाम् – श्रीरङ्गनाथस्य मणिखचितां पादुकाम्,
प्रपद्ये – उपायत्वेन आश्रये ,
यत्र - यस्यां पादुकायाम्,
विचित्र-जगद्-आधारः – आश्चर्यावहस्य जगतः आधारभूतः,
विष्णुः – सर्वव्यापी रङ्गनाथः,
प्रतिष्ठितः – सर्वदा निरपायः अवस्थितः ।

तात्पर्यम्
-----------

श्रीरङ्गनाथस्य मणिखचिता पादुका तस्य अनेकेषाम् आश्चर्यजनकानां विचित्रचेष्टितानाम् आधारः/प्रतिष्ठा अस्ति ।
रामावतारे अश्मायितायाः अहल्यायाः शापविमोचनम्, कृष्णावतारे द्रोणपुत्रस्य अश्वत्थाम्नः अस्त्रेण विप्लुष्टाङ्गस्य परीक्षितः जीवरक्षणम् इत्यादीनि व्यापारचित्राणि अत्र अभिप्रेतानि । अनेकविधरत्नानां विद्यमानत्वेन बहुवर्णमयी, शङ्खपद्माद्याकृतिभिः
च विचित्रा पादुका आलेख्यचित्राणां प्रतिष्ठा/आधारः अस्ति । तां रामपादुकाम् अहं प्रपद्ये इति   श्रीस्वामिवेदान्तदेशिक: वदति ।

भावार्थ
----------

श्रीरङ्गनाथ भगवान् की  मणिपादुका ,जो अनेक आश्चर्यजनक  विचित्रचेष्टाओं का आधार है,विषयभूता है,की शरणागति करता हूँ ,आश्रय लेता हूँ । इसी पादुका ने रामावतार में उपलभूता अहल्या का शापविमोचन कर पुनः सुन्दर स्त्री के रूप में गौतम को सौंपा । कृष्णावतार में द्रोणपुत्र अश्वत्थामा के द्वारा प्रयुक्त ब्रह्मास्त्र दग्धांग  उत्तरा के गर्भस्थ  परीक्षित की  जीवरक्षा की ,ऐसे और भी आश्चर्य जनक चमत्कार प्रस्तुत किये । यह मणिपादुका अपने में जटित अनेकविध रत्नों की वजह से  बहुवर्णमयी है । आपके पादतल में अंकित शङ्ख,पद्मादि की अाकृतियां इसमें हरपल प्रतिभासित होती रहती हैं।

टिप्पणियाँ